|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.153. अध्यायः 153
Mahabharata - Vana Parva - Chapter Topics
उपसंहृतपृथुरूपेण हनुमता सपरिष्वङ्गवरदानं विसृष्टेन भीमेन गन्धमादने सौरान्धिकसरोदर्शनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-153-0x(2279)(21744)
ततः संहृत्य विपुलं तद्वपुः कामवर्धितम्।
भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः ॥ 3-153-1(21745)
परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत।
श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् ॥ 3-153-2(21746)
[बलं चातिबलो मेने न मेऽस्ति सदृशो महान्।]
ततः पुनरथोवाच पर्यश्रुनयनो हरिः ॥ 3-153-3(21747)
भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा।
गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे ॥ 3-153-4(21748)
इहस्थश्च कुरुश्रेष्ठ न निवेद्योस्मि कस्यचित्।
धनदस्यालयाच्चापि विसृष्टानां महाबल ॥ 3-153-5(21749)
एष काल इहायातुं देवगन्धर्वयोषिताम्।
ममापि सफलं च क्षुः स्मारितश्चास्मि राघवम् ॥ 3-153-6(21750)
[रामाभिधानं विष्णुं हि जगद्धृदयनन्दनम्।
सीतावक्रारविन्दार्कं दशास्यध्वान्तभास्करम् ॥] 3-153-7(21751)
मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह।
तदस्मद्दर्शनं वीर कौन्तेयामाघमस्तु ते ॥ 3-153-8(21752)
भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत।
यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् ॥ 3-153-9(21753)
धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम्।
शिलया नगरं वा तन्मर्दितव्यं मया यदि ॥ 3-153-10(21754)
[बद्ध्वा दुर्योधनं चाद्य आनयामि तवान्तिकम्।]
यावदेतत्करोम्यद्यकामं तव महाबल ॥ 3-153-11(21755)
भीमसेनस्तु तद्वाक्यं श्रुत्वा तस् महात्मनः।
प्रत्युवाच हनून्तं प्रहृष्टेनान्तरात्मना ॥ 3-153-12(21756)
कृतमेव त्वया सर्वं मम वानरपुङ्गव।
स्वस्ति तेऽस्तु महाबाहो कामये त्वां प्रसीदमे ॥ 3-153-13(21757)
सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन्।
तवैव तेजसा सर्वान्विजेष्यामो वयं परान् ॥ 3-153-14(21758)
एवमुक्तस्तु हनुमान्भीमसेनमभाषत।
भ्रातृत्वात्सौहृदाच्चैव करिष्यामि प्रियं तव ॥ 3-153-15(21759)
चमूं विगाह्य शत्रूणां परशक्तिसमाकुलाम्।
यदा सिंहरवं वीर करिष्यसि महाबल ॥ 3-153-16(21760)
तदाहं बृंहयिष्यामि स्वरवेण रवं तव।
`यं श्रुत्वैव भविष्यन्ति व्यसवस्तेऽरयो रणे' ॥ 3-153-17(21761)
विजयस्य ध्वजस्थश्च नादान्मोक्ष्पामि दारुणान्।
शत्रूणां ये प्राणहराः सुखं येन हनिष्यथ ॥ 3-153-18(21762)
एवमाभाष्य हनुमांस्तदा पाण्डवनन्दनम्।
मार्गमाख्याय भीमाय तत्रैवान्तरधीयत ॥ 3-153-19(21763)
गते तस्मिन्हरिवरे भीमोपि बलिनांवरः।
तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् ॥ 3-153-20(21764)
अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि।
माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ ॥ 3-153-21(21765)
स तानि रमणीयानि वनान्युपवनानि च।
विलोलयामास तदा सौगन्धिकवनेप्सया ॥ 3-153-22(21766)
फुल्लपद्मविचित्राणि सरांसि सरितस्तथा।
नानाकुसुमचित्राणि पुष्पितानि वनानि च ॥ 3-153-23(21767)
मत्तवारणयुथानि पङ्कक्लिन्नानि भारत।
वर्षतामिव मेघानां वृन्दानि ददृशे तदा ॥ 3-153-24(21768)
हरिणैश्चपलापाङ्गैर्हरिणीसहितैर्वनम्।
सशष्पकवलैः श्रीमान्पथि दृष्ट्वा द्रुतं ययौ ॥ 3-153-25(21769)
महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम्।
व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत ॥ 3-153-26(21770)
कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः।
याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः ॥ 3-153-27(21771)
कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः।
प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् ॥ 3-153-28(21772)
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु।
द्रौपदीवाक्यपाथेयो भीमो भीमपराक्रमः ॥ 3-153-29(21773)
परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने।
काञ्चनैर्विलैः पद्मैर्ददर्श विपुलां नदीम् ॥ 3-153-30(21774)
हंसकारण्डवयुतां चक्रवाकोपशोभिताम्।
रचितामिव तस्याद्रेर्भालां विमलपङ्कजाम् ॥ 3-153-31(21775)
तस्यां नद्यां महासत्वः सौगन्धिकवनं महत्।
अपश्यत्प्रीतिजननं बालार्कसदृशद्युति ॥ 3-153-32(21776)
तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः।
वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् ॥ 3-153-33(21777)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|